|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.222. अध्यायः 222
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति जनकाय पञ्चशिखोक्तसांपरायिकभावादिप्रतिपादकवाक्यानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
भीष्म उवाच। 12-222-0x(6101)(74026)
जनको नरदेवस्तु ज्ञापितः परमर्षिणा।
पुनरेवानुपप्रच्छ सांपराये भवाभवौ॥ 12-222-1(74027)
जनक उवाच। 12-222-2x(6102)
भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित्।
एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति॥ 12-222-2(74028)
सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम।
अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति॥ 12-222-3(74029)
असंसर्गो हि भूतेषु संसर्गो वा विनाशिषु।
कस्मै क्रियेत तत्वेन निश्चयः कोऽत्र तत्त्वतः॥ 12-222-4(74030)
भीष्म उवाच। 12-222-5x(6103)
तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम्।
पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत्॥ 12-222-5(74031)
उच्छेदनिष्ठा नेहास्ति भा निष्ठा न विद्यते।
अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम्।
वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु॥ 12-222-6(74032)
धावतः पञ्च तेषां तु खं वायुर्ज्योतिरम्बु भूः।
ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः॥ 12-222-7(74033)
आकाशो वायुरूष्मा च स्नेहो यश्चापि पार्थिवः।
एष पञ्चसमाहारः शरीरमपि नैकधा॥ 12-222-8(74034)
`अहं वाच्यं द्विजानां यद्विशिष्टं बुद्धिरूपवत्।
वाचामगोचरं नित्यं ज्ञेयमेवं भविष्यति॥ 12-222-9(74035)
ज्ञानं ज्ञेयं तथा ज्ञानं त्रिविधं ज्ञानमुच्यते।'
ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः॥ 12-222-10(74036)
इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः।
प्राणापानौ विकारश्च धातवश्चात्र निःसृताः॥ 12-222-11(74037)
`प्राणादयस्तथा स्पर्शा न संबाधगतास्तथा।
पुत्राधीनं भविष्येत चिन्मात्रः स परः पुमान्॥ 12-222-12(74038)
श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च।
इन्द्रियाणीति पञ्चैते चित्तपूर्वगमा गुणाः॥ 12-222-13(74039)
तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा।
सुखदुःखेति यामाहुरदुःखेत्यसुखेति च॥ 12-222-14(74040)
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्तयः।
एते ह्यामरणात्पञ्च षङ्गुणा ज्ञानसिद्धये॥ 12-222-15(74041)
तेषु कर्मविसर्गश्च सर्वतत्वार्थनिश्चयः।
तमाहुः परमं शुक्रं `पारे च रजसः प्रभुम्॥ 12-222-16(74042)
विरागाद्वर्तते तस्मिन्मतो रजसि नित्यगम्।
तस्मिन्प्रसन्ने संपश्ये' द्वुद्धिरित्यव्ययं महत्॥ 12-222-17(74043)
इमं गुणसमाहारमात्मभावेन पश्यतः।
असम्यद्गर्शिनो दुःखमनन्तं नोपशाम्यति॥ 12-222-18(74044)
`तस्मादेतेषु मेधावी न प्रसज्येत बुद्धिमान्।'
अनात्मेति च यद्दृष्टं तन्नाहं न ममेत्यपि।
वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः॥ 12-222-19(74045)
यत्र सम्यङ्भनो नाम त्यागमात्रमनुत्तमम्।
शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति॥ 12-222-20(74046)
त्याग एव हि सर्वेषां युक्तानामपि कर्मणाम्।
नित्यदुःखविनीतानां श्लेषो दुःखवहो हतः॥ 12-222-21(74047)
द्रव्यत्यागे तु कर्माणि भोगत्यागे व्रतान्यपि।
सुखत्यागे तपोयोगं सर्वत्यागे समापना॥ 12-222-22(74048)
तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः।
विप्रहाणाय दुःखस्य दुर्गतिस्त्वन्यथा भवेत्॥ 12-222-23(74049)
`शेते जरामृत्युभयैर्विमुक्तः
क्षीणे पुण्ये विगते च पापे।
तपोनिमित्ते विगते च निष्ठे
फले यथाऽऽकाशमलिङ्ग एव॥' 12-222-24(74050)
पञ्चज्ञानेन्द्रियाण्युक्त्वा मनःषष्ठानि चेतसि।
मनःषष्ठानि वक्ष्यामि पञ्चकर्मेन्द्रियाणि तु॥ 12-222-25(74051)
हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम्।
प्रजनानन्दयोः शेफो निसर्गे पायुरिन्द्रियम्॥ 12-222-26(74052)
वाक्च शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः।
एवमेकादशैतानि बुद्ध्या तूपहतं मनः॥ 12-222-27(74053)
कर्णौ शब्दश्च चित्तं च त्रयः श्रवणसंग्रहे।
तथा स्पर्शे तथा रूपे तथैव रसगन्धयोः॥ 12-222-28(74054)
एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये।
येनायं त्रिविधो भावः पर्यायात्समुंपस्थितः॥ 12-222-29(74055)
सात्विको राजसश्चापि तामसश्चापि ते त्रयः।
त्रिविधा वेदना येषु प्रसूताः सर्वसाधनाः॥ 12-222-30(74056)
प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता।
अकुतश्चित्कुतश्चिद्वा चिन्तितः सात्विको गुणः॥ 12-222-31(74057)
अतुष्टिः परितापश्च शोको लोभस्तथाऽक्षमा।
लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः॥ 12-222-32(74058)
अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता।
कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः॥ 12-222-33(74059)
तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत्।
वर्तते सात्विको भाव इत्यपेक्षेत तत्तथा॥ 12-222-34(74060)
यत्तु सन्तापसंयुक्तमप्रीतिकरमात्मनः।
प्रवृत्तं रज इत्येवं ततस्तदपि चिन्तयेत्॥ 12-222-35(74061)
अथ यन्मोहसंयुक्तं काये मनसि वा भवेत्।
अप्रतर्क्यमविज्ञेयं तमस्तदुपधारयेत्॥ 12-222-36(74062)
श्रोत्रं व्योमाश्रितं भूतं शब्दः श्रोत्रं समाश्रितः।
नोभयं शब्दविज्ञाने विज्ञानस्तेतरस्य वा॥ 12-222-37(74063)
एवं त्वक्चक्षुषी जिह्वा नासिका चेति पञ्चमी।
स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत्॥ 12-222-38(74064)
स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति।
चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत्॥ 12-222-39(74065)
तेषामयुगपद्भाव उच्छेदो नास्ति तामसः।
आस्थितो युगपद्भावे व्यवहारः स लौकिकः॥ 12-222-40(74066)
इन्द्रियाण्युपसृत्यापि दृष्ट्वा पूर्वं श्रुतागमात्।
चिन्तयन्ननुपर्येति त्रिभिरेवान्वितो गुणैः॥ 12-222-41(74067)
यत्तमोपहतं चित्तमाशुसंचारमध्रुवम्।
करोत्युपरमं काये तदाहुस्तामसं सुखम्॥ 12-222-42(74068)
यद्यदागमसंयुक्तं न कृच्छ्रादुपशाम्यति।
अथ तत्राप्युपादत्ते तमो व्यक्तमिवानृतम्॥ 12-222-43(74069)
एवमेव प्रसङ्ख्यातः स्वकर्मप्रत्ययो गुणः।
कथंचिद्वर्तते सम्यक्केषांचिद्वा निवर्तते॥ 12-222-44(74070)
`अहमित्येष वै भावो नान्यत्र प्रतितिष्ठति।
यस्य भावो दृढो नित्यं स वै विद्वांस्तथेतरः॥ 12-222-45(74071)
देहधर्मस्तथा नित्यं सर्वभूतेषु वै दृढः।
एतेनैवानुमानेन त्याज्यो धर्मस्तथा ह्यसौ॥ 12-222-46(74072)
ज्ञानेन मुच्यते जन्तुर्धर्मात्मा ज्ञानवान्भवेत्।
धर्मेण धार्यते लोकः सर्वं धर्मे प्रतिष्ठितम्॥ 12-222-47(74073)
सर्वार्थजनकश्चैव धर्मः सर्वस्य कारणम्।
सर्वो हि दृश्यते लोके न सर्वार्थः कथंचन॥ 12-222-48(74074)
सर्वत्यागे कृते तस्मात्परमात्मा प्रसीदति।
व्यक्तादव्यक्तमतुलं लोकेषु परिवर्तते॥' 12-222-49(74075)
एतदाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः।
स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते॥ 12-222-50(74076)
एवं सति क उच्छेदः शाश्वतो वा कथं भवेत्।
स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुषु॥ 12-222-51(74077)
यथार्णवगता नद्यो व्यक्तीर्जहति नाम च।
नतु स्वतां नियच्छन्ति तादृशः सत्वसंक्षयः॥ 12-222-52(74078)
एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत्।
प्रतिसंमिश्रिते जीवे गृह्यमाणे च सर्वतः॥ 12-222-53(74079)
इमां च यो वेद विमोक्षबुद्धि
मात्मानमन्विच्छति चाप्रमत्तः।
न लिप्यते कर्मफलैरनिष्टैः
पत्रं बिसस्येव जलेन सिक्तम्॥ 12-222-54(74080)
दृढैर्हि पाशैर्बहुभिर्विमुक्तः
प्रजानिमित्तैरपि दैवतैश्च।
यदा ह्यसौ सुखदुःखे जहाति
मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः॥ 12-222-55(74081)
श्रुतिप्रमाणागममङ्गलैश्च
शेते जरामृत्युभयादभीतः।
क्षीणे च पुण्ये विगते च पापे
ततो निमित्ते च फले विनष्टे।
अलेपमाकाशमलिङ्गमेव
मास्थाय पश्यन्ति महत्यसक्ताः॥ 12-222-56(74082)
यथोर्णनाभिः परिवर्तमान
स्तन्तुक्षये तिष्ठति पात्यमानः।
तथा विमुक्तः प्रजहाति दुःखं
बिध्वंसते लोष्ठ इवाद्रिमृच्छन्॥ 12-222-57(74083)
यथा रुरुः शृङ्गमथो पुराणं
हित्वा त्वचं वाऽप्युरगो यथा च।
विहाय गच्छत्यनवेक्षमाण
स्तथा विमुक्तो विजहाति दुःखम्॥ 12-222-58(74084)
द्रुमं यथावाऽप्युदकै पतन्त
मुत्सृज्य पक्षी निपतत्यसक्तः।
तथा ह्यसौ सुखदुःखे विहाय
मुक्तः पराद्धर्यां गतिमेत्यलिङ्गः॥ 12-222-59(74085)
`इमान्स्वलोकाननुपश्य सर्वा
न्व्रजन्यथाऽऽकाशमिवाप्नुकामः।
इमां हि गाथां प्रलपन्यथाऽस्ति
समस्तसङ्कल्पविशेषमुक्तः।
अहं हि सर्वं किल सर्वभावे
ह्यहं तदन्तर्ह्यहमेव भोक्ता॥' 12-222-60(74086)
अपिच भवति मैथिलेन गीतं
नगरमुपाहितमग्निनाऽभिवीक्ष्य।
न खलु मम तुषोऽपि दह्यतेऽत्र
स्वयमिदमाह किल स्म भूमिपालः॥ 12-222-61(74087)
भीष्म उवाच। 12-222-62x(6104)
इदममृतपदं विदेहराजा
स्वयमिह पञ्चशिखेन भाष्यमाणम्।
निखिलमभिसमीक्ष्य निश्चितार्थः
परमसुखी विजहार वीतशोकः॥ 12-222-62(74088)
इमं हि यः पठति विमोक्षनिश्चयं
महीपते सततमवेक्षते तथा।
उपद्रवान्नानुभवत्यदुःखितः
प्रमुच्यते कपिलमिवैत्य मैथिलः॥ ॥ 12-222-63(74089)
इति श्रीमन्महाभारते शान्तिपर्वणि मोश्रधर्मपर्वणि द्वाविंशत्यधिकद्विशततमोऽध्यायः॥ 222॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-222-2 भगवन्यविदं प्रोक्तं इति ट. ड. थ. पाठः॥ 12-222-3 पञ्चत्वे तद्द्विजोत्तमेति ध. पाठः॥ 12-222-6 उच्छेदनिष्ठा देहेऽस्ति इति ट. थ. पाठः॥ 12-222-13 चित्तरूपं गमा गुणाः इति ध. पाठः॥ 12-222-15 गन्धश्च पञ्चमः इति ड. पाठः। आमरणाद्युक्ता इति ट. ड. थ. पाठः॥ 12-222-20 तत्तु सम्यङ्भातं नाम स्यागशास्त्रमनुत्तममिति ट. ड. थ. पाठः। अत्र सम्यग्बधो नाम त्यागशास्त्रमनुत्तममिति झ. पाठः॥ 12-222-21 नित्यं मिथ्या विनीतानां क्लेशो दुःखवहो मतः इति झ. पाठः॥ 12-222-22 सर्वशास्त्रतात्पर्यं त्यागे एवेत्याह द्रव्येति। द्रव्यादित्यागनिमित्तं यज्ञकर्मादीन्युपदिशन्तीति शेषः। सर्वत्यागनिमित्तं योगमुपदिशन्ति। यतः सा त्यागस्य समापना समाप्तिः पराकाष्ठेत्यर्थः॥ 12-222-27 बुच्द्याशु विसृजेन्मनः इति झ. पाठः॥ 12-222-34 इत्युपेक्षेत तं तथा इति ड. ध. पाठः॥ 12-222-35 यत्त्वसन्तोषसंयुक्तं इति झ. पाठः॥ 12-222-40 उच्छेदो नास्ति मानसः इति ड. थ. पाठः। तामसे इति झ. पाठः॥ 12-222-41 इन्द्रियाण्यपि सूक्ष्माणि इति झ. पाठः॥ 12-222-42 तामसं गुणं इति ट. ड. पाठः। तामसं बुधाः इति झ. पाठः॥ 12-222-43 न कृच्छ्रमनुपश्यति इति झ. पाठः॥ 12-222-52 नदाश्च तानि यच्छन्ति इति झ. पाठः॥ 12-222-58 रुरुर्मृगभेदः॥ 12-222-59 परार्द्भ्यां श्रेष्ठाम्॥ 12-222-63 अवेक्षते अर्थतः पर्यालोचयति। कपिलं कपिलप्रशिष्यं पञ्चशिखम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|